(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.51. अध्यायः 051
Mahabharata - Virata Parva - Chapter Topics
कर्णकृतद्रोणकृपाधिक्षेपसंक्रुद्धमश्वत्थामानं प्रति भीष्मेण द्रोणादिप्रशंसनपूर्वकं परिसान्त्वनम् ॥ 1 ॥ दुर्योधनेन भीष्मकर्णाभ्यां सह कृपद्रोणक्षमापनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-51-0x(3209)(30496)
ततः शान्तनवस्तत्र धर्मार्थकुशलं हितम् ।
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ 4-51-1(30497)
साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति ।
आचार्यपुत्रः सहजं निश्चितं साधु भाषते ॥ 4-51-2(30498)
कर्णस्तु क्षत्रधर्मेण केवलं योद्धुमिच्छति।
आचार्यो नावमन्तव्यः पुरुषेण विजानता।
देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः ॥ 4-51-3(30499)
यस्य सूर्यसमाः प़ञ्च सपत्नाः स्युः प्रहारिणः।
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ॥ 4-51-4(30500)
स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः ।
तस्मात्तत्वं न जानाति यत्तु कार्यं नराधिपः ॥ 4-51-5(30501)
धार्तराष्ट्रोपि दुर्बुद्धिः पश्यन्नपि धनञ्जयम् ।
नैव पश्यति नाघ्राति मन्दः क्रोधवशं गतः ॥ 4-51-6(30502)
वैशम्पायन उवाच। 4-51-7x(3210)
एवमुक्त्वा तु राजानं पुनर्द्रौणिमुवाच ह।
प्राञ्जलिर्भरतश्रेष्ठः साम्ना बुद्धिमतांवरः ॥ 4-51-7(30503)
कर्णो हि यदवोचत्त्वां तेजस्संजननाय तत्।
आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् ॥ 4-51-8(30504)
नायं कालो विरोधस्य कौन्तेये समुपस्थिते ।
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ॥ 4-51-9(30505)
भवतां हि कृतास्त्रत्वं यथाऽऽदित्ये प्रभा तथा ।
यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते ।
एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ॥ 4-51-10(30506)
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते।
नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुम।
अन्यत्र भारताचार्यात्सुपुत्रादिति मे मतिः ॥ 4-51-11(30507)
वेदान्ताश्च पुराणानि इतिहासं पुरातनम् ।
जामदग्न्यमृते राजन्को द्रोणादधिको भवेत् ॥ 4-51-12(30508)
ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ॥ 4-51-13(30509)
आचार्यपुत्रः क्षमतां नायं कालो विभेदने ।
सर्वे संहत्य युद्ध्यामः पाकशासनिमागतम् ॥ 4-51-14(30510)
बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः ।
मुख्यो भेदोहि तेषां तु पापिष्ठो विदुषां मतः ॥ 4-51-15(30511)
अश्वत्थामोवाच। 4-51-16x(3211)
नैवं न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ ।
किंतु रोषपरीतेन गुरुणा भाषिता गुणाः ॥ 4-51-16(30512)
शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि ।
सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत् ॥ 4-51-17(30513)
आचार्य एष क्षमतां शान्तिरत्र विधीयताम् ।
अभिद्यमाने तु गुरौ निवृत्तं रोषकारितम् ॥ 4-51-18(30514)
वैशम्पायन उवाच। 4-51-19x(3212)
ततो दुर्योधनो द्रोणं क्षमयामास भारत।
सह कर्णेन भीष्मेण कृपं चैव महाबलम् ॥ 4-51-19(30515)
द्रोण उवाच। 4-51-20x(3213)
यदेतत्प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत्।
तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् ॥ 4-51-20(30516)
यथा दुर्योधनं पार्थो नोपसर्पति संगरे।
साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् ॥ 4-51-21(30517)
वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः ।
धनं चालभमानोऽत्र नाद्य तत्क्षन्तुमर्हति ॥ 4-51-22(30518)
यथा नायं समायुञ्ज्याद्धार्तराष्ट्रं कथंचन ।
न च सेनां पराजय्यात्तथा नीतिर्विधीयताम् ॥ 4-51-23(30519)
उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् ।
तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि ॥ ॥ 4-51-24(30520)

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥

Mahabharata - Virata Parva - Chapter Footnotes
4-51-21 यथा दुर्योधनो राजा न गच्छेत्कांचिदापदमिति टo थo पाठः। यथा नायशसा युक्तो धार्तराष्ट्रः कथंचनेति धo पाठः ॥ 21 ॥ ॥ एकपञ्चाशोऽध्यायः ॥ 51 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.