|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.51. अध्यायः 051
Mahabharata - Virata Parva - Chapter Topics
कर्णकृतद्रोणकृपाधिक्षेपसंक्रुद्धमश्वत्थामानं प्रति भीष्मेण द्रोणादिप्रशंसनपूर्वकं परिसान्त्वनम् ॥ 1 ॥ दुर्योधनेन भीष्मकर्णाभ्यां सह कृपद्रोणक्षमापनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-51-0x(3209)(30496)
ततः शान्तनवस्तत्र धर्मार्थकुशलं हितम् ।
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ 4-51-1(30497)
साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति ।
आचार्यपुत्रः सहजं निश्चितं साधु भाषते ॥ 4-51-2(30498)
कर्णस्तु क्षत्रधर्मेण केवलं योद्धुमिच्छति।
आचार्यो नावमन्तव्यः पुरुषेण विजानता।
देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः ॥ 4-51-3(30499)
यस्य सूर्यसमाः प़ञ्च सपत्नाः स्युः प्रहारिणः।
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ॥ 4-51-4(30500)
स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः ।
तस्मात्तत्वं न जानाति यत्तु कार्यं नराधिपः ॥ 4-51-5(30501)
धार्तराष्ट्रोपि दुर्बुद्धिः पश्यन्नपि धनञ्जयम् ।
नैव पश्यति नाघ्राति मन्दः क्रोधवशं गतः ॥ 4-51-6(30502)
वैशम्पायन उवाच। 4-51-7x(3210)
एवमुक्त्वा तु राजानं पुनर्द्रौणिमुवाच ह।
प्राञ्जलिर्भरतश्रेष्ठः साम्ना बुद्धिमतांवरः ॥ 4-51-7(30503)
कर्णो हि यदवोचत्त्वां तेजस्संजननाय तत्।
आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् ॥ 4-51-8(30504)
नायं कालो विरोधस्य कौन्तेये समुपस्थिते ।
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ॥ 4-51-9(30505)
भवतां हि कृतास्त्रत्वं यथाऽऽदित्ये प्रभा तथा ।
यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते ।
एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ॥ 4-51-10(30506)
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते।
नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुम।
अन्यत्र भारताचार्यात्सुपुत्रादिति मे मतिः ॥ 4-51-11(30507)
वेदान्ताश्च पुराणानि इतिहासं पुरातनम् ।
जामदग्न्यमृते राजन्को द्रोणादधिको भवेत् ॥ 4-51-12(30508)
ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ॥ 4-51-13(30509)
आचार्यपुत्रः क्षमतां नायं कालो विभेदने ।
सर्वे संहत्य युद्ध्यामः पाकशासनिमागतम् ॥ 4-51-14(30510)
बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः ।
मुख्यो भेदोहि तेषां तु पापिष्ठो विदुषां मतः ॥ 4-51-15(30511)
अश्वत्थामोवाच। 4-51-16x(3211)
नैवं न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ ।
किंतु रोषपरीतेन गुरुणा भाषिता गुणाः ॥ 4-51-16(30512)
शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि ।
सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत् ॥ 4-51-17(30513)
आचार्य एष क्षमतां शान्तिरत्र विधीयताम् ।
अभिद्यमाने तु गुरौ निवृत्तं रोषकारितम् ॥ 4-51-18(30514)
वैशम्पायन उवाच। 4-51-19x(3212)
ततो दुर्योधनो द्रोणं क्षमयामास भारत।
सह कर्णेन भीष्मेण कृपं चैव महाबलम् ॥ 4-51-19(30515)
द्रोण उवाच। 4-51-20x(3213)
यदेतत्प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत्।
तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् ॥ 4-51-20(30516)
यथा दुर्योधनं पार्थो नोपसर्पति संगरे।
साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् ॥ 4-51-21(30517)
वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः ।
धनं चालभमानोऽत्र नाद्य तत्क्षन्तुमर्हति ॥ 4-51-22(30518)
यथा नायं समायुञ्ज्याद्धार्तराष्ट्रं कथंचन ।
न च सेनां पराजय्यात्तथा नीतिर्विधीयताम् ॥ 4-51-23(30519)
उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् ।
तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि ॥ ॥ 4-51-24(30520)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-51-21 यथा दुर्योधनो राजा न गच्छेत्कांचिदापदमिति टo थo पाठः। यथा नायशसा युक्तो धार्तराष्ट्रः कथंचनेति धo पाठः ॥ 21 ॥ ॥ एकपञ्चाशोऽध्यायः ॥ 51 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|